अस्माकं प्राचीना संस्कृतिः प्राकृतिकशक्तिषु दैवदर्शनं तस्या रक्षणे प्रेरयति। अस्माकं संस्कृतेः नियन्तारःकालिदासादयः निस्संदेहं दूरदर्शिनः आसन्। पृथिवी माता सम पूजनीया अस्ति अत्र। वनस्पति अस्माकं जीवनस्यआधारः वर्तते। वनोन्मूलनेन न केवलं वृक्षविनाशो भवति अपितु जलवायुपरिवर्तनेन तापवृद्धेर्वृष्ट्याभावः अपिभवति। भारतवर्षे प्रा़चीनकालादेव वनसंरक्षणस्य स्वस्थसामाजिकपरम्परा आसीत्। अस्माकं देशे अनेकानिवृक्षाणि यथा अश्वत्थो न्यग्रोधो औदुम्बुरो वा तुलसीत्यादि वृक्षाणां पूजा अद्यापि क्रियते। सम्पूर्ण आर्यावर्तःप्राचीनकालादेव प्राकृतिक पर्यावरणस्य, मानवसमाजस्य च प्रणेता वर्तते। अस्माकं संस्कृतिः प्राकृतिकशक्तिषुप्रति अनुरागं वर्धयति एवं स्वस्थश्च संतुलितश्च जीवनयापनं प्रति उपदिशति।
पर्यावरणशब्दः आंग्लभाषाया (Environment) शब्दस्य अनुवादः अस्ति। मानवाश्चान्ये जीवजन्तवः सर्वेपर्यावरणजा भवन्ति। तेषाम् उत्पत्तिः विकासश्च परयावरनपरिस्थित्याश्रितः अस्ति। वनस्पत्यैव वायुप्रदूषणंदूरीभवति। वृक्षात् निःसृता वायुरेव प्राणवायुरित्युच्यते। प्राणवायुः विना जीवनस्य कल्पना न भवितुं शक्नोति।
कविकुलगुरुः कालिदासो युगद्रष्टा कविः आसीत्। येन स्वग्रन्थे वनानां यत् महत्त्वं प्रतिपादितं तद् अद्यापिसमीचीनम्। कवेः काव्येषु नायक-नायिकाश्च सहैव सर्वे पात्रा वृक्षसंरक्षणे प्रयत्नशीला दृश्यन्ते। तत्र तपोवनसंस्कृतिः पर्यावरणस्य संरक्षणकृते भवति।
वर्तमान समये पर्यावरणप्रदूषणसमस्या एका ज्वलन्तीसमस्या अस्ति। अद्य सर्वत्र पर्यावरणस्य प्रदूषणं चिन्तायाविषयः। सत्यमस्ति यत् वैज्ञानिकप्रगतिः अस्माकं जीवनस्तरस्य उत्थानं करोति परन्तु अति प्रगतिः अपि एकाविशदीसमस्या अस्ति। “अति सर्वत्र वर्जयेत्” कथनं सत्यमस्ति अधुना। यत्र प्रौद्योगिकी-वैज्ञानिकतकनीक्यौ च नःजीवनं सुखदं सुन्दरं विनिर्मितवन्तौ तत्रैव पर्यावरणप्रदूषणेन जीवने दुःखवृद्धिः जाता। अन्यच्चजनसंख्यावृद्ध्याअ, अनियन्त्रित-औद्योगिककरणेन, नगरीकरणेन, वनविनाशेन, जीवनायावश्यकानिपञ्चमहाभूतानीतितत्त्वानि प्रदूषितानि सञ्जातानि।
कविकुलगुरुः कालिदासो काव्येषु नानारूपाप्रकृतिः पर्यावरणं निर्मलीकुर्वाणा वर्णिता दृश्यते। तत्र प्रकृतिःमानवरूपा, बिम्बात्मिका, ओषधिरूपा, विज्ञानात्मिका, शुभाशुभफलप्रदा, सेविकारूपा, पर्यावरणात्मिका, सुखदायिका, विरहा, शृंगारी, जीवजन्तुस्वरूपिणी, जलवायु-ध्वनिस्वरूपा, तपोवना, अलङ्कारिकी च अस्ति्।
कालिदासः सर्वथा मानवरूपां प्रकृतिं वर्णयति। रघुवंशमहाकाव्ये वृक्षाश्रिता बाललताः पौरकन्यानामिव राज्ञेपुष्पाण्यवाकिरन्-
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्त्तमानम्।
अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः॥ (रघु०१/१०)
श्लोकेऽस्मिन बाललतामुपरि पौरकन्यानामारोपेण प्रकृतेर्मानवीकरणम्।
तत्र द्वितीये सर्गे दिलीपस्य महामहिमतया एव द्रुमादयोऽपि राजोपचारं कुर्वन्ति। अत्र द्रुमाः पक्षिणां विरावैःदिलीपस्य यशोगानं मानवानामिव कुर्वन्ति।
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य।
उदीरयामासुरिवोन्मा्दानामालोकशब्दं वयसां विरावैः॥ (रघु०२/९)
तत्रैव देवदारुवृक्षस्य पुत्ररूपे वर्णनम्-
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ बृषभध्वजेन।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥ (रघु०२/३६)
वृक्षाणां मानवीकरणेन तेषां मानवजीवने महत्ता सिद्धयति। “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्” इत्युक्तिरपि पर्यावरणरक्षिका एव।
तत्र नवमल्लिकालताया नायिकारूपे वर्णमद्वितीयम्-
अमदयन्मधुगन्धसनाथया किसलयाधरसङ्गतया मनः।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी॥ (रघु०९/४२)
नायिकामिवात्र वृक्षमित्रेण सह विलासवती नवमल्लिकालता मकरन्दमद्यसुवासितपल्लवाधरेण दर्शकानांमनोहरति। वर्णनमिदं प्रकृतेर्मानवीकरणस्य, कवेर्हृदयस्य च सुकुमारतां व्यनक्ति।
कुमारसम्भवस्य प्रथमसर्गे जडहिमवतोऽपि नायकमिव आचरणं करोति। तत्र नगाधिराजेन सह मेनायाविवीहवर्णनम्-
स मानसीं मेरुसखः पितृणां कन्यां कुलस्य स्थितये स्थितिज्ञः।
मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे॥ (कुमार०१/१८)
वसन्तर्तौ शोभायमानानि किंशुकपुष्पाणि द्रष्टव्यानि-
बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥ (कुमार०३/२९)
अत्र वसन्तो नायकरूपे वनस्थलीनायिकारूपा च वर्णिता। अद्य मानवानां परस्परसम्बन्धेषु अविश्वासो दृश्यतेकिन्तु जन्तूनां परस्परसम्बन्धेषु विश्वासमेव आधारम्। तत्र भवान् श्लोकेऽस्मिन् प्रत्यक्षीकरोतु यत् द्विरेफो भृङ्ग्यासह, कृष्णसारो मृग्या सह परस्परं विश्वासयुक्तो सन् नायक-नायिकामिव व्यवहरन्ति।–
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः।। (कुमार०३/३६)
कवि अभिज्ञानशाकुन्तले तपोवनसंस्कृतिं वर्णयति। तत्र ऋषिकन्या शकुन्तला समानशीलासखिभिस्सहपर्यावरणसंरक्षणे प्रयत्नशीला दृश्यते। सा वृक्षसेचनं करोति तथा वदति“अस्ति मे सोदरस्नेहोऽप्येतेषु”
तत्र सहकारो नायकरूपे च वनज्योत्सना नायिका इव वर्णिताः। तत्र आश्रमस्य वृक्षाः शकुन्तलायै स्वजना इव।
अतएव कोकोलमञ्जुकूजनच्छलेनर्तैवृक्षैः शकुन्तला प्रस्थानाय अनुमता। अत्रापि वृक्षाणां मानवीकरणं वर्णितम्-
अनुगतगमनाशकुन्तला तरुभिरियं वनवासबन्धुभिः।
परभृतविरुतं कलं प्रतिवचनीकृतमेभिरीदृशम्॥ (अभि०४/१०)
प्रकृतेर्मानवाञ्च सम्बन्धोऽन्योन्याश्रितो वर्तते। मेघदूतखण्डकाव्यं तु रामगिर्याश्रमे नमेरुवृक्षाणांस्निग्धच्छायातले यक्षनिवासेनसहैवारभ्यते। परोपकारिणी प्रकृतिः सर्वदा सर्वस्य स्गरणस्थलीव मत्वा शापस्यतापविमुक्तये इव यक्षः रामगिर्याश्रमेषु शरणंगतः। मेघदूते सर्वत्र प्रकृतिवर्णनमुपलभ्यते। पूर्वमेघे तु मध्यप्रदेशस्यभौगोलिकवर्णनेन कविः पर्यावरणसंरक्षणे प्रयत्नशीलो दृश्यते। तस्मिन ग्रन्थे एव कालिदासलोकरक्षणायैवार्थित्वंगतः प्रकृतेः संरक्षणार्थमेव जलं ययाचे-
जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरिषं कामरूपं मघोनः।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा॥ (मेघ०, पूर्व.६)
विक्रमोर्वशीयनामाख्यनाटकेऽपि नायक-नायिकारूपे वर्णिता प्रकृतिर्विभाव्यते-
निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन्।
स्नेह-दाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे॥ (विक्रम०२/१८)
अस्मिन्नाटकेऽन्यस्थलेष्वमपि प्रकृतेर्मानवीकरणवर्णणं द्रष्टव्यम्-
विद्युल्लेखा -कनक-रुचिरं श्रीवितानं ममाभ्रं
व्याधूयन्ते निचुलतरुभिर्मञ्जरी-चामराणि।
धर्मच्छेदात् पटुतरगितो वन्दिनो नीलकण्ठा,
धारासारोपनयन -परा नैगमाः सानुमन्तः॥ (विक्रम्०४/१३)
++++++++++++++++++++++++++++++++++++
आरक्तराजिभिरियं कुसुमैर्नवकन्दलीसलिलगर्भैः।
कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः॥ (विक्रम०४/१५)
मालविकाग्निमित्रनाटके वसन्तर्तवेर्मानवीकरणं दर्शनीयम्-
उन्मत्तानां श्रवणसुभगैः कूजितैः कोकिलानां
सानुक्रोशं मनसिजरुजं सह्यतां पृच्छतेव।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन॥ (मालविका०३/४)
कवेः प्रकृतिः तादात्मिका यत् जडपदार्थोऽपि सचेतनप्राणिमिवाचरन्तिं विदिशासमीपे वर्णिता वेत्रवतीकामुकत्त्वाखण्डफलं ददाति-
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि॥ (मेघ०पूर्व.२६)
तत्र अन्यत्र गम्भीरानदी चटुलशफरोद्वर्तनप्रेक्षणेन नायिकायाः कटाक्षमिवाचरति-
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने।
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम्।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि॥ (मेघ०पूर्व.४४)
कालिदासस्य काव्ये आश्रमे प्रवेशयन्तीति जन्तुनां अद्वितीयं मानवीकरणं दृश्यते। कालिदासो युगद्रष्टाकविरभूत्।प्रकृतेर्महत्ता विषयकं कवेर्ज्ञानमद्भुतमासीत्। तेषु काव्येषु वनसंरक्षणेन सह पर्यावरणसंरक्षणज्ञानमपि उपलभ्यते।नाटकीयपात्रेषु तु पर्यावरणविषयकं विशिष्टविज्ञानं परिलक्ष्यते। अभिज्ञानशाकुन्तलम् नाटकस्य प्रथमाङ्के एवशकुन्तला वृक्षाणि सिञ्चन्तीवादृश्यत्। प्रयोजनं विना वृक्षस्य पत्रमेकमपि न गृह्णाति सा। लतां प्रति तस्याभगनिकास्नेहो भवति। तया आश्रममृगा मुष्ठयान्न पालिताः। लतापुष्पाणि तस्या हृदि प्रसन्नतां जनयन्ति।
अतएव कालिदासकाव्यानां विहंगावलोकनेन ज्ञायते यत् स वनस्पतिविज्ञानविदासीत्। अद्यागतानांपर्यावरणप्रदूषणविषयकमापदानां ज्ञानं तस्मिन् काले एव स्वीयेन काव्यमाध्यमेन संकेतितम्।

निबन्धे वैज्ञानिकम् दृष्टिकोणं अस्ति
ReplyDeleteCakes to India
ReplyDelete