Showing posts with label veda. Show all posts
Showing posts with label veda. Show all posts

Thursday, December 30, 2010

वेदाङ्गानि

     छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रौतमुच्यते॥
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते॥ (पाणिनीय शिक्षा)
इदानीं प्रत्येकं वेदाङ्गानां संक्षिप्तं लक्षणमस्ति। वेदस्य अङ्गम् इति वेदाङ्गम्। वेदाङ्गं वेदस्य षट् शृङ्गाणि सन्ति यथा-शिक्षा, कल्पं, निरुक्तं, छन्दः, ज्योतिषं व्याकरणम् चेति-
शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा।
कल्पोचेति षडङ्गानि वेदस्यार्षमनीषिणः॥
विद्यायाः परापरा चेति विभागद्वयं वर्तते मुण्डकोपनिषदि, वेदाङ्गानि अपरा विद्यान्तर्गतानि तत्र-
       तत्रापरा  ऋग्वेदो यजुर्वेदः सामवेदोऽथर्व वेदः।
       शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम्॥
शिक्षा- वेदस्य अर्थज्ञानाय स्वरज्ञानाय प्रथमम् आवश्यकं तत्त्वं शिक्षा अस्ति।
स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा। (ऋग्वेदभाष्य भूमिका)
अनया वेदमन्त्राणाम् उच्चारणं यथायथं शुद्धं सम्पाद्यते।
तैत्तिरीयोपनिषदि शिक्षा वेदाङ्गस्य प्रयोजनमुक्तम्- वर्णः, स्वरः, मात्रा, बलं, साम, सन्तानः चेति षड्ङ्गानि शिक्षायाः अभिधीयते-
शिक्षा व्याख्यास्यामः। वर्णः, स्वरः, मात्रा, बलं, साम, सन्तानः इत्युक्तः। (तैत्तिरीयोपनिषदीय शिक्षाध्याये)
वर्णः- त्रिषष्टिः चतुःषष्टिर्वा वर्णाः शम्भुमते मताः। (पाणिनीय शिक्षा)
स्वरः- दुष्टो मन्त्रः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो नतमर्थमाह।
सवाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् (नारदीय शिक्षा)
मात्रा:- एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते त्रिमात्रास्तु प्लुतो ज्ञेयो व्यंजनस्त्वर्धमात्रकः। (छन्दोमञ्जरी)
बलम्- स्थान प्रयत्नो बलम्।
साम- साम निषादादि।वर्णानां दोषरहितं मार्धुर्यादि गुणान्वितोच्चारणं सामपदेन अभिधीयते।
सन्तानः-“सन्तानौ विकर्षणादि।
कल्पः- “हस्तौ कल्पोऽथ पठ्यते।
कल्पौ वेदविहितानां कर्मणामानुपूर्येण कल्पना शास्त्रम्।इति कल्पलक्षणम्।
कल्पसूत्राणि मूलतः चतुर्विधानि- श्रौतसूत्राणि, धर्मसूत्राणि, गृह्यसूत्राणि, शुल्बसूत्राणि च।
श्रौतसूत्राणि- श्रुतियुक्त यागविधिप्रकारकानि श्रौतसूत्राणि। उदाहरणार्थम्-
आश्वालायन श्रौतसूत्रम्, सांख्यायन श्रौतसूत्रम् (ऋग्वेदे), कात्यायन श्रौतसूत्रम् (शुक्लयजुर्वेदीयं), बोधायय-आपस्तम्ब-हिरण्यकेशी-वैखानस-भारद्वाज-मानव श्रौतसूत्राणि (कृष्णयजुर्वेदीयं)
आर्षेय श्रौतसूत्रम्, लाट्यायन श्रौतसूत्रम् द्राढ्यायन श्रौतसूत्रम्, जैमिनीय श्रौतसूत्रम् (सामवेदीयं), वैतान श्रौतसूत्रं (अथर्ववेदीय)
शुल्बसूत्रम्-शुल्बं नाम मापक्रिया।
गृह्यसूत्राणि- आश्वालायन गृह्यसूत्रं, सांख्यायनगृह्यसूत्रम् (ऋग्वेदे), पारस्कर गृह्यसूत्रम् (शुक्लयजुर्वेदीये), बोधायन-भारद्वाज-आपस्तम्ब-हिरण्यकेशी-वैखानस-बाधूल-काठक-वाराह गृह्यसूत्राणि (सामवेदे), गोभिल-खादिर-जैमिनीय गृह्यसूत्राणि (अथर्ववेदीयम्)
धर्मसूत्राणि- धर्मसूत्राणि यथा बोधायन-गौतम-आपस्तम्ब-हिरण्यकेशी-वशिष्ठ-विष्णु-वैखानस-हारीत-भारद्वाज-शंख-मानव-बृहस्पति इत्यादीनि धर्मसूत्राणि।
निरुक्तम्- निरुक्तं श्रोतमुच्यते। निघण्टुग्रन्थस्य व्याख्यानमेव निरुक्तमिति। निरुक्तग्रन्थः यास्कस्य कृतिः अस्ति। निरुक्तं पञ्चविधं श्रूयते-
वर्णागमौ वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ।
धातोस्तदर्थाभिनयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्॥
निरुक्ते नैघण्टुककाण्डं, नैगमकाण्डं, दैवतकाण्डञ्चेति मूलकाण्डत्रयमस्ति।
छन्दः- “छन्दासि छादनात् इति निरुक्तम्।
छन्दः पादौ तु वेदस्य
तैत्तिरीयसंहितायाम् उक्तम् अस्ति यत् छन्दः आत्मानं छादयित्वा अग्निसविधं गच्छति-
ते छन्दोभिरात्मानां छादयित्वो पयंस्तच्छन्दसां छन्दस्त्वम्। (तैत्तिरीय संहिता)
छन्दांसि मूलतः द्विधानि-वैदिकानि लौकिकानि च।
यदक्षरपरिमाणं तत्छन्दः” (कात्यायन सर्वानुक्रमणी)
तैद्वदेव छन्दोऽक्षरसंख्यावच्छेदकमुच्यते-इति” (वृहत् सर्वानुक्रमणी)
छन्दः शास्त्रस्य प्रवर्त्तकः आचार्यः पिङ्गलः छन्दः सूत्रं तस्य कृतिः।
ज्योतिषाम् –“ज्योतिषामयनं चक्षुः ज्योतिषं वेदपुरूषस्य चक्षुरूपेण कल्प्यते तत्र तावत् ज्योतिषं नाम कालविज्ञापक-शास्त्रम्-
          यथा शिखा मयूराणां नागानां गणयो यथा
        तद्वत् वेदाङ्ग शास्त्राणां गणितं मूर्ध्नि स्थितम् (वेदांग ज्योतिषम्)
          *************************************************
इदमन्धतमः कृत्स्नं जायेत भुवनत्रयम्
शब्दाह्वयं ज्योतिरासंसारं दीयते
चतुर्णामपि वेदानाम् पृथक् पृथक ज्योतिशास्त्रमासीत् सामवेदस्य ज्योतिषं इदानीं नोपलभ्यते
(१)आर्ष ज्योतिषं (ऋग्वेदीयम्) षट्त्रिशत् पद्यात्मकम्
(२) याजुष् ज्योतिषम् (यजुर्वेदीयम्) अनच्त्वारिंशत् पद्यात्मकम्
(३)आथर्वण ज्योतिषम् (अथर्वेदीयम्) द्विषष्ट्ट्युत्तरशत पद्यात्मकम्
एतेषां त्र्याणां प्रणेता लगधः
अष्टादशः पुरातनाः ज्योतिषप्रवर्तकाः श्रूयन्ते यथा--
     सूर्यः पितामहो व्यासो वशिष्ठोऽत्रि पराशरः
    कश्यपो नारदो गर्गो मरीचिर्मनुरंगिराः
    लोपशः पुलिनश्चैव च्यवनो यवनो भृगुः
    शौनकोऽष्टादशश्चेति ज्योतिशास्त्र प्रवर्तकाः
व्याकरणम्- मुखं व्याकरणं स्मृतम्व्याक्रियन्ते व्युत्पाद्यन्ते साधुः शब्दाः अनेनेति व्याकरणम्।
शास्त्रेष्वाद्यं व्याकरणं मुखं तत्र पाणिनेः।
तत्र रम्यं महाभाष्यं तत्रापि पस्पशा॥
शास्त्राणि भाषानिबद्धानि शास्त्रेषु सर्वेषु व्याकरणं प्रधानं भजते। वेदस्य रक्षार्थं व्याकरणस्य अध्ययनम् अत्यावश्यकम्। व्याकरणस्य प्रयोजनम् उक्तं महाभाष्ये-
रक्षोहागमलघ्वसंदेहाः प्रयोजनम्इति।(पस्पाशानिकम्)
रक्षार्थं वेदाध्येयं व्याकरणम्। व्याकरणानि अष्टौ इति श्रूयते-
प्रथमं प्रोच्यते ब्राह्मं द्वितीयमैन्द्रमुच्यते।
याम्यं प्राक्तं ततोरुद्रं वायव्यं वारुणं तथा।
सावित्रं तथा प्रोक्तमष्टमं वैष्णवं तथा।
नव व्याकरणानि प्रसिद्धानि सन्ति-
ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्।
सारस्वतं चापिशलं शाकलं पाणिनीयम्॥
पाणिनीयव्याकरणमति प्रसिद्धमस्ति। अस्य बहु ख्यातिः वर्तते।